|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.23. अध्यायः 023
Mahabharata - Shanti Parva - Chapter Topics
व्यासेन युधिष्ठिरंप्रति शङ्खलिखितोपाख्यानकथनपूर्वकं क्षात्रधर्मस्वीकरणचोदना॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
वैशम्पायन उवाच। 12-23-0x(6156)(74413)
एवमुक्तस्तु कौन्तेयो गुडाकेशेन भारत।
नोवाच किंचित्कौरव्यस्ततो द्वैपायनोऽब्रवीत्॥ 12-23-1(74414)
व्यास उवाच। 12-23-2x(6157)
बीभत्सोर्वचनं सौम्य सत्यमेतद्युधिष्ठिर।
शास्त्रदृष्टः परो धर्मः स्मृतो गार्हस्थ्य आश्रमः॥ 12-23-2(74415)
स्वधर्मं चर धर्मज्ञ यथाशास्त्रं यथाविधि।
न हि गार्हस्थ्यमुत्सृज्य तवारण्यं विधीयते॥ 12-23-3(74416)
गृहस्थं हि सदा देवाः पितरोऽतिथयस्तथा।
भृत्याश्चैवोपजीवन्ति तान्भरस्व महीपते॥ 12-23-4(74417)
वयांसि पशवश्चैव भूतानि च जनाधिप।
गृहस्थैरेव धार्यन्ते तस्माच्छ्रेष्ठो गृहाश्रमी॥ 12-23-5(74418)
सोऽयं चतुर्णामेतेषामाश्रमाणां दुराचरः।
तं चराद्य विधिं पार्थ दुश्चरं दुर्बलेन्द्रियैः॥ 12-23-6(74419)
वेदज्ञानं च ते कृत्स्नं तपश्चाचरितं महत्।
पितृपैतामहं राज्यं धुर्यवद्वोद्दुमर्हसि॥ 12-23-7(74420)
तपो यज्ञस्तथा विद्या भैक्ष्यमिन्द्रियसंयमः।
ध्यानं विद्या समुत्थानं संतोषश्च श्रियं प्रति।
तथा ह्येकान्तशीलत्वं तुष्टिर्दानं च शक्तितः॥ 12-23-8(74421)
ब्राह्मणानां महाराज चेष्टा संसिद्धिकारिका।
क्षत्रियाणां तु वक्ष्यामि तवापि विदितं पुनः॥ 12-23-9(74422)
यज्ञो विद्या समुत्थानमसंतोषः श्रियं प्रति।
दण्डधारणमुग्रत्वं प्रजानां परिपालनम्॥ 12-23-10(74423)
वेदज्ञानं तथा कृत्स्नं तपः सुचरितं तथा।
द्रविणोपार्जनं भूरि पात्रे च प्रतिपादनम्॥ 12-23-11(74424)
एतानि राज्ञां कर्माणि सुकृतानि विशांपते।
इमं लोकममुं चैव साधयन्तीति नः श्रुतम्॥ 12-23-12(74425)
एषां ज्यायस्तु कौन्तेय दण्डधारणमुच्यते।
बलं हि क्षत्रिये नित्यं बले दण्डः समाहितः॥ 12-23-13(74426)
एताश्चेष्टाः क्षत्रियाणां राजन्संसिद्धिकारिकाः।
अपि गाथामिमां चापि बृहस्पतिरगायत॥ 12-23-14(74427)
भूमिरेतौ निगिरति सर्पो बिलशयानिव।
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्॥ 12-23-15(74428)
सुद्युम्नश्चापि राजर्षिः श्रूयते दण्डधारणात्।
प्राप्तवान्परमां सिद्धिं दक्षः प्राचेतसो यथा॥ 12-23-16(74429)
युधिष्ठिर उवाच। 12-23-17x(6158)
भगवन्कर्मणा केन सुद्युम्नो वसुधाधिपः।
संसिद्धिं परमां प्राप्तः श्रोतुमिच्छामि तं नृपम्॥ 12-23-17(74430)
व्यास उवाच। 12-23-18x(6159)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
शङ्खश्च लिखितश्चास्तां भ्रातरौ संशितव्रतौ॥ 12-23-18(74431)
तयोरावसथावास्तां रमणीयौ पृथक्पृथक्।
नित्यपुष्पफलैर्वृक्षैरुपेतौ बाहुदामनु॥ 12-23-19(74432)
ततः कदाचिल्लिखितः शङ्खस्याश्रममागतः।
यदृच्छयाऽथ शङ्खोपि निष्क्रान्तोऽभवदाश्रमात्॥ 12-23-20(74433)
सोऽभिगम्याश्रमं भ्रातुश्चंक्रमँल्लिखितस्तदा।
फलानि शातयामास सम्यक्परिणतान्युत॥ 12-23-21(74434)
तान्युपादाय विस्रब्धो भक्षयामास स द्विजः।
तस्मिंश्च भक्षयत्येव शङ्खोऽप्याश्रममागतः॥ 12-23-22(74435)
भक्षयन्तं तु तं दृष्ट्वा शङ्खो भ्रातरमब्रवीत्।
कुतः फलान्यवाप्तानि हेतुना केन खादसि॥ 12-23-23(74436)
सोऽब्रवीद्धातरं ज्येष्ठमुपसृत्याभिवाद्य च।
इत एव गृहीतानि मयेति प्रहसन्निव॥ 12-23-24(74437)
तमब्रतीत्तथा शङ्खस्तीव्ररोषसमन्वितः।
स्तेयं त्वया कृतमिदं फलान्याददता स्वयम्॥ 12-23-25(74438)
गच्छ राजानमासाद्य स्वकर्म कथयस्व वै।
अदत्तादानमेवं हि कृतं पार्थिवसत्तम॥ 12-23-26(74439)
स्तेनं मां त्वं विदित्वा च स्वधर्ममनुपालय।
शीघ्रं धारय चोरस्य मम दण्डं नराधिप॥ 12-23-27(74440)
इत्युक्तस्तस्य वचनात्सुद्युम्न स नराधिपम्।
अभ्यगच्छन्महाबाहो लिखितः संशितव्रतः॥ 12-23-28(74441)
सुद्युम्नस्त्वन्तपालेभ्यः श्रुत्वा लिखितमागतम्।
अभ्यगच्छत्सहामात्यः पद्भ्यामेव जनेश्वरः॥ 12-23-29(74442)
तमब्रवीत्समागम्य स राजा धर्मवित्तमम्।
किमागमनमाचक्ष्व भगवन्कृतमेव तत्॥ 12-23-30(74443)
एवमुक्तः स विप्रर्षिः सुद्युम्नमिदमब्रवीत्।
प्रतिश्रुत्य करिष्येति श्रुत्वा तत्कर्तुमर्हसि॥ 12-23-31(74444)
अनिसृष्टानि गुरुणा फलानि मनुजर्षभ।
भक्षितानि महाराज तत्र मां शाधि माचिरम्॥ 12-23-32(74445)
सुद्युम्न उवाच। 12-23-33x(6160)
प्रमाणं चेन्मतो राजा भवतो दण्डधारणे।
अनुज्ञायामपि तथा हेतुः स्याद्ब्राह्मणर्षभ॥ 12-23-33(74446)
स भवानभ्यनुज्ञातः शुचिकर्मा महाव्रतः।
ब्रूहि कामानतोऽन्यांस्त्वं करिष्यामि हि ते वचः॥ 12-23-34(74447)
व्यास उवाच। 12-23-35x(6161)
संछन्द्यमानो ब्रह्मर्षिः पार्थिवेन महात्मना।
नान्यं स वरयामास तस्माद्दण्डादृते वरम्॥ 12-23-35(74448)
ततः स पृथिवीपालो लिखितस्य महात्मनः।
करौ प्रच्छेदयामास धृतदण्डो जगाम सः॥ 12-23-36(74449)
स गत्वा भ्रातरं शङ्खमार्तरूपोऽब्रवीदिदम्।
धृतदण्डस्य दुर्बुद्धेर्भवांस्तत्क्षन्तुमर्हति॥ 12-23-37(74450)
शङ्ख उवाच। 12-23-38x(6162)
न कुप्ये तव धर्मज्ञ न त्वं दूषयसे मम।
`सुनिर्मलं कुलं ब्रह्मन्नस्मिञ्जगति विश्रुतम्।'
धर्मस्तु ते व्यतिक्रान्तस्ततस्ते निष्कृतिः कृता॥ 12-23-38(74451)
त्वं गत्वा बाहुदां शीघ्रं तर्पयस्व यथाविधि।
देवानृषीन्पितृंश्चैव मा चाधर्मे मनः कृथाः॥ 12-23-39(74452)
`ब्रह्महत्यां सुरापानं स्तेयं गुर्वङ्गनागमम्।'
महान्ति पातकान्याहुः संयोगं चैव तैः सह॥ 12-23-40(74453)
न स्तेयसदृशं ब्रह्मन्महापातकमस्ति हि।
जगत्यस्मिन्महाभाग ब्रह्महत्यासमं हि तत्॥ 12-23-41(74454)
सर्वपातकिनां ब्रह्मन्दण्डः शारीर उच्यते।
तस्करस्य विशेषेण नान्यो दण्डो विधीयते॥ 12-23-42(74455)
ब्राह्मणः क्षत्रियो वाऽपि वैश्यः शूद्रोऽथवा द्विज।
सर्वे कामकृते पापे हन्तव्या न विचारणा॥ 12-23-43(74456)
राजभिर्धृतदण्डा वै कृत्वा पापानि मानवाः।
निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा॥ 12-23-44(74457)
उद्धृतं नः कुलं ब्रह्मन्नाज्ञादण्डे धृते त्वयि॥' 12-23-45(74458)
तस्य तद्वचनं श्रुत्वा शङ्खस्य लिखितस्तदा।
अवगाह्यापगां पुण्यामुदकार्थं प्रचक्रमे॥ 12-23-46(74459)
प्रादुरास्तां ततस्तस्य करौ जलजसन्निभौ।
ततः स विस्मितो भ्रातुर्दर्शयामास तौ करौ॥ 12-23-47(74460)
ततस्तमब्रवीच्छङ्खस्तपसेदं कृतं मया।
मा च तेऽव विशङ्का भूद्दैवमत्र विधीयते॥ 12-23-48(74461)
लिखित उवाच। 12-23-49x(6163)
किंतु नाहं त्वया पूतः पूर्वमेव महाद्युते।
यस्य ते तपसो वीर्यमीदृशं द्विजसत्तम॥ 12-23-49(74462)
शङ्ख उवाच। 12-23-50x(6164)
एवमेतन्मया कार्यं नाहं दण्डधरस्तव।
स च पूतो नरपतिस्त्वं चापि पितृभिः सह॥ 12-23-50(74463)
व्यास उवाच। 12-23-51x(6165)
स राजा पाण्डवश्रेष्ठ श्रेयान्वै तेन कर्मणा।
प्राप्तवान्परमां सिद्धिं दक्षः प्राचेतसो यथा॥ 12-23-51(74464)
एष धर्मः क्षत्रियाणां प्रजानां परिपालनम्।
उत्पथेभ्यो महाराज मा स्म शोके मनः कृथाः॥ 12-23-52(74465)
भ्रातुरस्य हितं वाक्यं शृणु धर्मज्ञसत्तम।
दण्ड एव हि राजेन्द्र क्षत्रधर्मो न मुण्डनम्॥ ॥ 12-23-53(74466)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि त्रयोविंशोऽध्यायः॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-23-2 गार्हस्थ्यः गृहस्थस्यायं गार्हस्थ्यः॥ 12-23-15 बिलशयान्मूषिकान्। अप्रवासिनं गृहादिसङ्गिनम्। सर्पो बिलशयाविवेति ड.थ.पाठः॥ 12-23-19 बाहुदां नदीमनु तत्समीपे॥ 12-23-21 शङ्खस्य लिखितस्तदेति झ. पाठः॥ 12-23-24 उपस्पृश्याभिवाद्य चेति ड.थ. पाठः॥ 12-23-26 हे पार्थिवसत्तम मया अदत्तादानं कृतमित्यस्मै राज्ञे कथयस्वेति संबन्धः॥ 12-23-29 अन्तपालेभ्यो द्वारपालेभ्यः॥ 12-23-31 करिष्येतीति संधिरार्षः॥ 12-23-32 अनिसृष्टान्यदत्तानि। गुरुणा ज्येष्ठभ्रात्रा॥ 12-23-33 यथा दण्डधारणे राजा प्रमाणं तथाऽनुज्ञायां हेतुः प्रमाणम्॥ 12-23-34 शुचिकर्मा मदनुज्ञयैव शोधितदोषः॥ 12-23-38 मम माम् निष्कृतिः प्रायश्चित्तम्॥ 12-23-46 उदकस्यार्थं प्रयोजनं आचमनादि कर्तुमिति शेषः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|